अथ चान्यत् प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः।।१ ।।

आसीद् तुंगध्वजो राजा प्रजापालनतत्परः।
प्रसाद सत्यदेवस्य त्यक्त्वा दुःखमवाप सः।।२।।

एकदा स वनं गत्वा हत्वा बहुविधान् पशुन्।
आगत्य वटमूलञ्च दृष्ट्वा सत्यस्य पूजनम् ।।३।।

गोपाः कुर्वन्ति सन्तुष्टाः भक्तियुक्ता: सबान्धवा: ।
राजा दृष्ट्वा तु दर्पेण नाऽऽगतो न ननाम सः ।।४।।

ततो गोपगणाः सर्वे प्रसादं नृपसन्निधौ।
संस्थाप्य पुनरागत्य भुक्त्वा सर्वैर्यथेप्सितम्।।५।।

तत्प्रसाद परित्यज्य राजा दुःखमवाप्तवान्।
तस्य पुत्रशतं नष्टं धन- धान्यादिकञ्च यत् ।।६।।

सत्यदेवेन सत्सर्वं नाशितं मम निश्चितम्।
अतस्तत्रैव गच्छामि यत्र देवस्य पूजनम्।।७।।

मनसा तु विनिश्चित्य ययौ गोपालसन्निधिम् ।।
ततोऽसौ सत्यदेवस्य पूजा गोपगणैः सह:
भक्ति-श्रद्धान्वितो भूत्वा चकार विधिना नृपः।।८।।

तद्व्रतस्य प्रभावेण धनपुत्रान्वितोऽभवत्।
इह लोके सुखं भुक्त्वा पश्चात सत्यपुरं ययौ ।।९।।

य इदं कुरुते सत्य-व्रतं परमदुर्लभम् ।
शृणोति च कथां पुण्यां भक्तियुक्त फलप्रदाम्।।१०।।

धन-धान्यादिकं तस्य भवेत् सत्यप्रसादतः।
दरिद्रो लभते वित्तं बद्धो मुच्येत बन्धनात् ।।११।।

भीतो भयात् प्रमुच्येत सत्यमेव न संशयः।
ईप्सितं च फलं भुक्त्वा चान्ते सत्यपुरं व्रजेत्।।१२।।

इति वः कथितं विप्राः सत्यनारायणव्रतम्।
यत् कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः।।१३।।

विशेषतः कलियुगे सत्यपूजा फलप्रदा।
केचित् कालं वदिष्यन्ति सत्यमीशं तमेव च ।।।१४।।

सत्यनारायणं केचित् सत्यदेवं तथाऽपरे।
नाना रूपधरो भूत्वा सर्वेषामीप्सितप्रदः।।१५।।

भविष्यति कलौ विष्णुः सत्यरूपी सनातनः।
श्रीविष्णुना धृतंरूपं सर्वेषां इप्सितप्रदम्।। १६।।

य इदं पठते नित्यं शृणोति मुनिसत्तमाः! ।
तस्य नश्यन्ति पापानि सत्यदेव प्रसादतः।।१७।।

य इदं पठते नित्यं श्रृणोति मुनिसत्तमाः।
तस्य नश्यन्ति पापानि सत्यदेवप्रसादतः॥१८।।

व्रतं यैस्तु कृतं पूर्व सत्यनारायणस्य च।
तेषां त्वपरजन्मानि कथयामि मुनीश्वराः।।१९।।

शतानन्दो महाप्राज्ञः सुदामा ब्राह्मणोऽभवत्।
तस्मिन् जन्मनि श्रीकृष्णं ध्यात्वा मोक्षमवाप ह ॥२०॥

काष्ठभारवहो भिल्लो गुहराजो बभूव ह।
तस्मिन् जन्मनि संसेव्य रामं मोक्षं जगाम वै॥२१॥

उल्कामुखो महाराजो नृपो दशरथोऽभवत् ।
श्रीरङ्गनाथ सम्पूज्य श्रीबैकुण्ठं तदागमत् ॥२२॥

धार्मिकः सत्यसन्धश्च साधुर्मोरध्वजोऽभवत्।
देहाधुक्रकचैश्छित्त्वा दत्त्वा मोक्षमवाप ह॥२३॥

तुङ्गध्वजो महाराजः स्वयम्भुरभवत् किल।
धर्मान् भागवतान् कृत्वा श्रीबैकुण्ठं तदाऽगमत् ॥२४॥

इति श्रीस्कन्धपुराणे रेवाखण्डे सत्यनारायण व्रत कथायां सप्तमोऽध्यायः


सनातन धर्म बहुत बडा और उदार धर्म है इसकी रक्षा करना हमारा कर्तव्य है। यदी आप अपनी तरफसे थोडा प्रयत्न करे तो यह इसकी रक्षा और सम्मान कर सकते हैं । यह काम और कोइभी नही करेगा हमे खुद करना है । इसकी रक्षा हम गोली और तलवारसे नहीं बल्की हमारे धर्म शास्त्रके बारेमे जानकारी रखकर अथवा इसको पढकर अपने बच्चोको सिखाकर कर सकते हैं ।

इतने व्यस्त समयमे पुस्तक लेकर पढना बहुत मुश्किल हैं इसलिए हमने अपनी तरफसे थोडा प्रयास किया है आपके मोबाईलमे ही सबकुछ उपलब्ध हो इसलिए Play Store मे

Guru Parampara गुरुपरम्परा

Guru parampara android App

नामसे Application है थोडा समय देकर अपनी प्रतिक्रिया और सुझाव प्रदान करे