अथ प्रथमोध्याय:

ॐ नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम्।

देवी सरस्वतीं चैव ततो जयमुदीरयेत् ।।

एकदा मुनयः सर्वे सर्वलोकहिते रताः। सुरम्ये नैमिषारण्ये गोष्ठी चक्रुर्मनोरमाम् ।।१।।

तत्रान्तरे महातेजा व्यासशिष्यो महायशाः। सूतः शिष्यगणैर्युक्तः समायातो हरिं स्मरन् ।।२।।

तमायान्तं समालोक्य सूतं शास्त्रार्थपारगम्।नेमुः सर्वे समुत्थाय शौनकाद्यास्तपोधनाः ।।३।।

सोऽपि तान् सहसा भक्त्या मुनीन् परमवैष्णवान्। ननाम दण्डवद् भूमौ सर्वधर्मविदां वरः।। ४ ।।

वरासने महाबुद्धिस्तैर्दत्ते मुनिसत्तमः।उवाच सदसो मध्ये सर्वैः शिष्यगणैर्वृतः।। ५।।

तत्रोपविष्टं तं सूतं शौनकौमुनिसत्तमः।बद्धाञ्जलिरिमां वाचमुवाच विनयान्वितः।। ६ ।।

   शौनक उवाच-

महर्षे ! सूत ! सर्वज्ञ ! कलिकाले समागते। केनोपायेन भगवन्! हरि भक्तिर्भवेन्नृणाम् ।। ७।।

कलौ सर्वे भविष्यन्ति पापकर्मपरायणाः। वेदविद्या विहीनाश्च तेषां श्रेयः कथं भवेत् ।।८।।

कलावन्नगत प्राणाः लोकाः स्वल्पायुषस्तथा। निर्द्धनाश्च भविष्यन्ति नानापीड़ा प्रपीड़िताः।।९।।

प्रयाससाध्यं सुकृतं शास्त्रेषु श्रूयते द्विज! । तस्मात् केऽपि करिष्यन्ति कलौ न सुकृतं जनाः।। १० ।।

सुकृतेषु विनष्टेषु प्रवृत्ते पापकर्मणि। सवंशाः प्रलयं सर्वे गमिष्यन्ति दुराशयाः।।११।।

स्वल्वश्रमैरल्प- वित्तैरल्पकालैश्च सत्तम!। यथा भवेन्महापुण्यं तथा कथय सूत! नः ।।१२।।

यस्योपदेशतः पुण्यं पापं वा कुरुते जनः। स तद्भागी भवेन्मर्त्य इति शास्त्रेषु निश्चितम्।।१३।।

पुण्योपदेशी सदयः कैतवैश्च विवर्जितः। पापायन विरोधी च चत्वारः केशवोपमाः ।।१४।।

ज्ञानं सम्प्राप्य संसारे यः परेभ्यो न यच्छति। ज्ञानरूपी हरिस्तस्मै प्रसन्न इव नेक्षते।।१५।।

ज्ञानरत्नैश्च रत्नैश्च परसन्तोषकन्नरः । स ज्ञेयः सुमते! नूनं नररूपधरो हरिः।।१६।।

व्रतेन तपसा किं वा प्राप्स्यते वांच्छितं फलम्। तत्सर्वं श्रोतुमिच्छामि कथयस्व महामते।।१७।।

त्वमेव मुनिशार्दूल! वेदवेदाङ्गपारगः। त्वदृते नहि वक्तान्यो यतस्त्वं व्यासशासितः।।१८।।

सूत उवाच-

धन्योऽसि त्वं मुनिश्रेष्ठ! त्वमेव वैष्णवाग्रणीः । यतः समस्त भूतानां हितं वांच्छसि सर्वदा।।१९।।

शृणु शौनक! वक्ष्यामि यत्त्वया श्रोतुमिष्यते। नारदेनैवमुक्तः सन् भगवान् कमलापतिः।।२०।।

सुरर्षये यथैवाह तच्छृणुध्वं समाहिताः।।२१।।

इति श्री सत्यनारायण व्रत कथायां प्रथमोऽध्यायः