अथ षष्टोऽध्यायः

सूत उवाच-

यात्रां कृत्वा ततः साधुर्मङगलाचार -पूर्विकाम्। ब्राह्मणाय धनं दत्त्वा सहर्षं नगरं ययौ।।१।। 

कियद् दूरे गते साधौ सत्यनारायणः प्रभुः। जिज्ञासां कृतवान् साधो! किमस्ति तरणौ तव।।२।।

ततो महाजनो मत्तो हेलया च प्रहस्य च। कथं पृच्छसि भो दण्डिन्! मुद्रां किं लब्धुमिच्छसि ।।३।।

लतापत्रादिकं चैव वर्तते तरणौ मम। निष्ठुरं च वचः श्रुत्वा सत्यं भवतु त्वद्वचः ।।४।।

एवमुक्त्वा गतः शीघ्रं दण्डी तस्य समीपतः। गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा ।।५।। 

उत्थितान्-तरणी दृष्ट्वा विस्मयं परमं ययौ। लतापत्रादिकं दृष्ट्वा मूर्च्छितो न्यपतद् भुवि ।।६।।

लब्धसंज्ञो वणिक्पुत्रः ततश्चिन्तान्वितोऽभवत्। जामाता दुहितुः कान्तो| वचनञ्चेदमब्रवीत।।७।। 

किमर्थं कुरुषे शोकं शापो दत्तश्च दण्डिना। शक्यते तेन सर्वं हि कर्तुं हर्तुं न संशयः।।८।। 

अतस्तच्छरणं याहि वाञ्छितार्थो भविष्यति। जामातुश्च वचः श्रुत्वा तत्सकाशं गतस्तदा।।९।।

 दृष्ट्वा तु दण्डिनं भक्त्या नत्वा प्रोवाच सादरम्। मया दुरात्मना देव! मुग्धेन तव मायया।।१०।। 

यदुक्तं तद्वचो नाथ! दोषम्मे क्षन्तुमर्हसि। यतः परहिताः सर्वे क्षमासारा हि साधवः ।।११।। 

पुनः पुनस्ततो नत्वा रुरोद् शोकविह्वलः। तमुवाच ततो दण्डी विलपन्तं विलोक्य च।।१२।।

 मा रोदीः शृणु मे वाक्यंमम पूजाबहिर्मुखः। मामवज्ञाय दुर्बुद्धे! लब्धं दुःखं मुहुर्मुहुः ।।१३।।

 तच्छ्रुत्वा भगवद्वाक्यं स्तुतिं कर्तुं समुद्यतः।।१४।।

 साधुरुवाच- त्वन्मायामोहिताः सर्वे ब्रह्माद्यास्त्रिदिवौकसः। न जानन्ति गुणं रूपं तवाश्चर्यमिदं विभो! ।।१५।।

 मूढोऽहं प्राक् कथं जाने मोहितस्तव मायया। प्रसीद पूजयिष्यामि यथाविभवविस्तरैः।।१६।।

 पुत्रं वित्तं च संवृत्तिं पाहि मां शरणागतम् ।।१७।।

 श्रुत्वा स्तवादिकं वाक्यं परितुष्टो जनार्दनः। वरञ्च वाञ्छितं दत्त्वा तत्रैवाऽन्तर धीयत ।।१८।।

 ततोऽसौ नावमारुह्य दृष्ट्वा रत्नादिपूरिताम् । कृपया सत्यदेवस्य सफलं वाञ्छितं मम। 

 इत्युक्त्वा स्वजनैः सार्धं पूजां कृत्वा यथा साधोर्भार्यां विधि ।।१९।। 

हर्षेणमहता साधुः प्रयाणञ्चाऽकरोत्तदा । नावं संवाह्य वेगेन स्वदेशमगमत्तदा ।।२०।। 

ततो जामातरं प्राह पश्य वत्स! पुरी मम। दूतञ्च प्रेषयामास निजवित्तस्य रक्षकम् ।।२१।।

 ततोऽसौ नगरं गत्वा  विलोक्य च। प्रोवाच वाञ्छितं वाक्यं नत्वा वद्धाञ्जलिस्तदा।।२२।।

तटे तु नगरेस्यैव जामात्रा सहिलो वणिक । आगतो बन्धू-वगैश्च धनैर्बहुविधैस्तथा ।।२३।।

श्रुत्वा दूतस्य तद्वाक्यं महा-हर्षयुता | सती। सत्यपूजां ततः कृत्वा प्रोवाच तनुजां प्रति। व्रजामि शीघ्रमाऽऽगच्छ साधुसन्दर्शनाय च ।।२४।।

इति मातृवचः श्रुत्वा व्रतं कृत्वा समाप्य च। प्रसादञ्च परित्यज्य गता सापि पतिं प्रति।।२५।। 

तेन रुष्टःसत्यदेवो भर्तारं तरणिं तथा। संहृत्य च धनैः सार्धं जले तस्मिन् न्यमज्जयत् ।।२६।।

ततः कलावती कन्या नाऽवलोक्य निजं पतिम् । शोकेन महता तत्र रुदन्ती चाऽपतद् भुवि ।।२७॥

दृष्ट्वा तथाविधां | कन्यां न दृष्ट्वा तत्पतिं तरिम्। भीतेन महता साधुः किमाश्चर्यमिदं विति। चिन्त्यमानाश्च ते सर्वे बभूवुस्तरिवाहकाः।।२८।।

ततो लीलावती साध्वी दृष्ट्वा च विह्वला सती। विललापाऽतिदुःखेन भर्तारञ्चेदमब्रवीत् ।।२९।।

इदानीं नौकया सार्धमदृश्योऽभूदलक्षितः। न जाने केन देवेन हेलया चाऽप हारितः।।३०।। 

सत्यदेवस्य माहात्म्यं किं वा ज्ञातुं न शक्यते। इत्युक्त्वा विललापाऽथ तत्रत्यैःस्वजनैः सह। ततो लीलावती कन्यां क्रोडे कृत्वा रुरोद च ।।३१।।

ततः कलावती कन्या नष्टे स्वमिनि दुःखिता। गृहित्वा पादुकां तस्य अनुगन्तुं मनोदध ।।३२ ।।

कन्यायाश्चरितं दृष्ट्वा सभार्याः सज्जनो वणिक् । अतिशोकेन सन्तप्तश्चिन्तयामास धर्मवित्।।३३।।

हतो हि सत्यदेवेन जामाता सत्यमायया। सत्यपूजां करिष्यामि यथाविभव विस्तरैः।।३४।।

इति सर्वान् समाहूय कथयँश्च मनोरथम् । नत्वा च दण्डवद् भूमौ सत्यदेवं| पुनः पुनः।।३५ ।।

ततस्तुष्टः सत्यदेवो गगनाद् वपिज प्रति। जगाद वचनञ्चेदं नैवेद्यञ्चाऽवमन्य च। आगता स्वमिनं द्रष्टुमतोऽदृश्योऽभवत् पतिः ।।३६ ।। 

गृही गत्वा प्रसादञ्च भुक्ता चायाति चेत् पुनः। लब्धभत्री सुता साधो! भविष्यति न संशयः ।।३७।। 

ततस्तत् प्राणदं वाक्यं श्रुत्वा गगनमण्डले। क्षिप्रं तदा गृह गत्वा प्रसादं प्रतिगृह्य च। अपश्यत् पुनरागत्य पति नाविजनैः सह।।३८ ।।

ततः कलावती तुष्टा जगाद | पितरं प्रति। एहि तात! गृहं यामो विलम्ब कुरुषे कथम् ।।३९।।

तच्छ्रुत्वा कन्यकावाक्यं सन्तुष्टोऽभूद् वणिक्सुतः। पूजनं सत्यदेवस्य कृत्वा बहु-विधानतः। धनैर्बन्धुजनैः सार्धं जगाम निजमन्दिरम् ।।४०।। 

मासि मासि च संक्रांत्यां पूजां कृत्वा यथाविधि। इह लोके सुखं भुक्त्वा चाऽन्ते सत्यपुरं ययौ।।४१।।

अथ चान्यत् प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः! ।।४२ ।।

इति श्री सत्यनारायण व्रत कथायां षष्टोऽध्यायः