अथ पञ्चमोंध्याय:

मायया सत्यदेवस्य न श्रुतञ्च तयोर्वचः। ततस्तयोध निं राज्ञा गृहीतं चन्द्रकेतुना।।१।।

तच्छापाच्च तयोर्गेहे| भार्या च दुःखिताऽभवत् । चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम् ।।२।।

आधिव्याधि समायुक्ता क्षुत्पिपासाऽतिपीड़िता। अन्नचिन्तापरा भूत्वा भ्रमते च गृहे गृहे ।।३।।

तथा कलावती कन्या भ्रमते प्रतिवासरम्। एकस्मिन् दिवसे रात्रौ क्षुधार्ता द्विजमन्दिरम् ।।४।।

गत्वाऽपश्यद व्रतं तत्र सत्यनारायणस्य च। उपविश्य कथां श्रुत्वा वरं संप्रार्थ्य वाञ्छितम् ।।५।।

प्रसादं भक्षणं कृत्वा ययौ रात्रौ गृह प्रति। ततो लीलावती कन्यां भर्त्सयामास तां भृशम् ।।६।।

पुत्रि! रात्रौ स्थिता कुत्र किं ते मनसि वर्त्तते। द्विजालये व्रतं मातः! 

दृष्टं वाञ्छितसिद्धिदम्। तच्छ्रुत्वा कन्यकावाक्यं व्रतं कर्तुं समुद्यता।।७।।

ससुता सा वणिग्भार्या सत्यनारायणस्य च। व्रतं हि कुरुते साध्वी बन्धुभिः स्वजनैः सह ।।८।।

भर्तृजामातरौ क्षिप्रमागच्छेतां निंजाश्रमम् । इति देवं वरं याचे सत्यदेवं पुनः पुनः।।९।।

अपराधञ्च भर्तुम जामातुः क्षन्तुमर्हसि। व्रतेन तेन तुष्टोऽसौ सत्यनारायणः प्रभुः।।१०।।

दर्शयामास स्वप्ने हि चन्द्रकेतुं नृपोत्तमम्। बन्धनान्मोचय प्रातर्वणिजौ नृपसत्तम! ।।११।।

देयं धनञ्च तत्सर्वं विधियुक्तं हृतञ्च यत्। नो चेत्त्वां नाशयिष्यामि सराज्यधनपुत्रकम् ।।१२।।

 एवमाभाष्य राजानं ध्यानगम्योऽभवत् प्रभुः। ततः प्रभातसमये| राजा च स्वजनैःसह।।१३।।

 उपविश्य सभामध्ये प्राह पौरजनान् प्रति। बद्धौ महाजनौ शीघ्रं मोचयध्वं वणिक्सुतौ ।।१४।।

इति राज्ञो वचः श्रुत्वा मोचयित्वा महाजनौ। समानीय नृपस्याग्रे प्रोचुस्त विनयान्विताः ।।१५।। 

आनीतौ द्वौ वणिक्पुत्रौ मुक्तौ निगडबन्धनात्। ततो महाजनौ नत्वा चन्द्रकेतुं नृपोत्तमम् ।।१६।। 

स्मरन्तौ । पूर्ववृत्तान्तं विस्मयाद् भयविहलौ राजा वणिक्सुता वीक्ष्य प्रोवाच सादरं वचः।।१७।।

 दैवात् प्राप्तं महद्दुःखमिदानीं नास्ति ते भयम्। इदानीं कर्तुमुचितं क्षौरकर्मादिकञ्च यत्।।१८।। 

ततो नृपाऽऽज्ञया सर्वं नित्यकृत्य समाप्यच। शुक्लाम्बरधरौ शीघ्रं सभामध्ये समागतौ ।।१६।।

 ततो नृपवरः श्रीमान् स्वर्णरत्नविभूषणैः। पुरस्कृत्य वणिक्पुत्रौ वचसा प्रीणयन् भृशम् ।।२०।।

 पुरानीतञ्च यद् द्रव्यं द्विगुणीकृत्य दत्तवान्। प्रोवाच तौ ततो राजा गच्छ साधो! निजाश्रमम् ।।२१।।

 राजानं प्रणिपत्याऽऽह गन्तव्यं त्वत्प्रसादतः।।२२।।

इति श्री सत्यनारायण व्रत कथायां पञ्चमोऽध्यायः