अथ चतुर्थोऽध्यायः

आसीदुल्कामुखो नाम नृपतिर्बलिनां वरः। जितेन्द्रियः सत्यवादी ययौ देवालयं प्रति। दिने दिने धनं दत्त्वा द्विजान् सन्तोषयन् सुधीः।।१।।

भार्या तस्य प्रमुग्धा च सरोजवदना सती। सत्यव्रतं भद्रशीलासिन्धुतीरेऽकरोन्मुने! ।।२।।

एतस्मिन्नन्तरे तत्र साधुरेकः समागतः। वाणिज्यार्थं बहुधनैरत्नाद्यैः परिपूरिताम् ।।३।।

नावं संस्थाप्य तत्तीरे जगाम तत्तटं प्रति। दृष्ट्वा तत्र व्रतं सम्यक् पप्रच्छ विनयान्वितः।।४।।

साधुरुवाचकिमिदं कुरुषे राजन्! भक्तियुक्तेन चेतसा। प्रकाशं कुरु तत् सर्वं श्रोतुमिच्छामि साम्प्रतम् ।।५।।

राजोवाच-

पूजनं क्रियते साधो! विष्णोरतुलतेजसः। व्रतं च स्वजनैः सार्धं पुत्रादि प्राप्स्यते मया।।६।।

प्रत्युवाच-ततौ नत्वा राजानं मधुरं वचः। साङ्गं कथय मे राजन् ?  व्रतमेतत् करोम्यहम् ।।७।।

ममापि सन्ततिर्नास्ति सत्यमेतद् ब्रवीम्यहम्। ततो विधानतो राजा कथयामास तद् व्रतम् ।।८।।

राज्ञो मुखाद् व्रतं श्रुत्वा परं हर्षमवाप्तवान्। ततो निवर्त्य वाणिज्यातू सानन्दो गृहमागतः।।९।।

भार्यायै कथितं सर्वं व्रतञ्च सन्ततिप्रदम् । तदा व्रतं करिष्यामि यदा मे| सन्ततिर्भवेत्।।१०।।

कस्मिंश्चिद् दिवसे तस्य भार्या लीलावती सती। गर्भयुक्ताऽऽन्द- चित्ताऽभवद्धर्मपरायणा ।।११।।

पूर्णे गर्भे ततो जाता बालिका चाऽतिनिर्मला। दिने दिने वर्धमाना शुक्लपक्षे यथा शशी।।१२।।

ततो वणिक् सुतायाश्च जातकर्मादिक चरन्। नाम्ना कलावती चेति तन्नामकरणं कृतम् ।।१३।।

ततो लीलावती प्राह स्वामिनं मधुरं वचः। न करोषि किमर्थं वा पुरा यच्च प्रतिश्रुतम् ।।१४।।

विवाह समयेऽप्यस्याः करिष्यामि व्रतं प्रिये !। इति भार्यां समाश्वास्य जगाम नगरं प्रति ।।१५।।

ततः कलावती कन्या वर्द्धिता पितृवेश्मनि। दृष्ट्वा कन्यां ततः साधुर्नगरे बन्धुभिः सह ।।१६।।

मन्त्रयित्वा द्रुतं दूतं प्रेषयामास धर्मवित्। विवाहार्थं च कन्याया वरं श्रेष्ठ विचारयन् ।।१७।।

तेनाऽऽज्ञप्तश्च दूतोऽसौ काञ्चनं नगरं ययौ। तस्मादेकं वणिकपुत्रं समादायागतो हि सः।।१८।।

दृष्ट्वा तु सुन्दरं बालं वणिक्पुत्रं गुणान्वितम् । ज्ञातिभिर्बन्धुभिः सार्धं परितुष्टेन चेतसा ।।१९।।

दत्तवान् साधुपुत्राय कन्यां विधिविधानतः। ततोऽभाग्यवशात्तेन विस्मृतं व्रतमुत्तमम् ।।२०।।

विवाहसमयेऽप्यस्यास्तेन रुष्टोऽभवद् विधुः ।।२१।।

ततः कालेन कियता निजकर्मविशारदः ।।२२।।

(वाणिज्यायार्थं गतः शीघ्रं जामात्रा सहितो वणिक् ॥ रत्नसारपुरे रम्ये गत्वा सिन्धुसमीपतः।) 

वाणिज्यं कुरुते साधुर्जामात्रा श्रीमता सह। पुरीनिर्माय नगरे चन्द्रकेतोर्नृपस्य च ।।२३।।

एतस्मिन्नेव काले तु सत्यनारायणः प्रभुः। भ्रष्टप्रतिज्ञमालोक्य शापं तस्मै | प्रदत्तवान्। 

श्वः प्रभृति कियत कालं महद् दुःखं भविष्यति।।२४।।

तस्मिन्नेव दिने राज्ञो धनमादाय तस्करः। ते नै व वमना यातः पृष्ठ देश विलोकयन् ।।२५।।

(तेन दूतान् समाहूय निजमाज्ञाञ्च दत्तवान् ।) 

तत्पश्चाद्धावकान् दूतान् दृष्ट्वा भीतेन चेतसा। धनं संस्थाप्य तत्रैव गतः शीघ्रमलक्षितः।।२६।।

ततो दूताः समायाता यत्रास्ते सज्जनो वणिक् । दृष्ट्वा नृपधनं तत्र बध्वा दूता वणिक् सुतौ ।।२७।

हर्षयुक्ता | धावमाना ऊचुर्नृपसमीपतः। तस्करौ द्वौ समानीतौ विलोक्याऽऽज्ञापय प्रभो! ।।२८।।

तेनाज्ञप्तस्ततः शीघ्रं दृढं बध्वा तु तावुभौ। स्यापितव्यौ महादुर्गे| कारागारेऽविचारयन् ।।२९।।

इति श्री सत्यनारायण व्रत कथायां चतुर्थोऽध्याय