अथ तृतीयोऽध्यायः

मयाऽपि कथितं विप्र! किमन्यत् कथयामि ते ।।१।।

शौनक उवाच-

तस्माद् विप्र ! व्रतं केन पृथिव्यां चरितं मने!। तत्सर्वं श्रोतुमिच्छामि श्रद्धाऽस्माकं प्रजायते।।२।।

सूत उवाच-

श्रृणुध्वं मुनयः सर्वे तस्माद्येन कृतं भुवि ।।३।।

एकदा स द्विजवरो यथाविभवविस्तरैः। बन्धुभिः स्व-जनैः सार्धं व्रतं कर्तुं समुद्यतः।।४।।

एतस्मिन्नन्तरे काले काष्ठकेतुः समागतः। बहिष्काष्ठञ्च संस्थाप्य विप्रस्य मन्दिरं ययौ।।५।।

तृष्णया पीडितात्मा स विप्रं दृष्ट्वा तथाविधम । प्रणिपत्य द्विजं प्राह-किमिदं क्रियते त्वया। कृते किं फलमाप्नोति विस्तराद् वद मे प्रभो! ।।६।।

 विप्र उवाच- 

सत्यनाराणस्येदं व्रतं सर्वेप्सितप्रदम्। दुःखशोकादिशमनं सर्वत्र विजयप्रदम् ।।७।

धनधान्यसन्ततिकरं सर्वेषामीप्सितप्रदम्। यस्थ प्रसादान्मे सर्वं धनधान्यदिकं महत्।।८।।

ततस्तु तद् व्रतं ज्ञात्वा काष्ठकर्ताऽतिहर्षितः। पपौ जलं प्रसादञ्च भुक्त्वा तन्नगरं ययौ।।९।।

सत्यनारायणं देवं चिन्तयस्थिरमानसः। काष्ठं विक्रीय नगरे प्रप्स्यते चाऽद्ययद्धनम्। 

तेनैव सत्यदेवस्य व्रतं सम्यक् करोम्यहम् ।।१०।।

इति सञ्चित्य मनसा काष्ठं| कृत्वा तु मस्तके। जगाम नगरे रम्ये धनिनां यत्र संस्थितिः।।११।।

तद्दिने काष्ठमूल्यञ्च द्विगुणं प्राप्तवानसौ। ततः प्रसन्नहृदयः सुपक्वं कदलीफलम्।।१२।।

शर्करा-घृत-दुग्धञ्च गोधूमस्य च चूर्णकम्। प्रत्येकं तु सपादञ्च गृहित्वा स्वगृहं ययौ ।।१३।।

ततो बन्धून समाहूय चकार विधिवद् व्रतम्। तद्व्रतस्य प्रभावेण धनपुत्रान्वितोऽभवत् । इह लोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ ।।१४।।

पुनरन्यतू प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः! ।।१५।।

इति श्री सत्यनारायण व्रत कथायां तृतीयोऽध्यायः