अथ द्वितीयोऽध्यायः
एकदा नारदो योगी नराऽनुग्रह-काङ्क्षया। पर्यटन विविधान् लोकान् मर्त्यलोकमुपागतः।।१।।
तत्र दृष्ट्वा जनाः सर्वे नानादुःखसमन्विताः। नानायोनि-समुत्पन्नाः। क्लिश्यन्ते पापकर्मभिः ।।२।।
केनोपायेन चैतेषां दुःखनाशोभवेद् ध्रुवम्। इति सञ्चिन्त्य मनसा विष्णुलोक गतस्तदा।।३।।
तत्र नारायणं देवं शुक्लवर्णं चतुर्भुजम् । शङ्खचक्रधरं देवं वनमालाविभूषितम् ।
दृष्ट्वा तं देवदेवेशं स्तोतुं समुपचक्रमे ।।४।।
नारद उवाच –
नमस्ते वाङ्मनोतीत- रूपायानन्दशक्तये। आदिमध्यान्तहीनाय निर्गुणाय गुणात्मने ।। ५।।
सर्वेषामादिभूताय भक्तानामातिनाशिने। श्रुत्वा स्तोत्रं ततो विष्णुर्नारदं प्रत्यभाषत।।६।।
श्रीभगवानुवाच –
किमर्थमागतोऽसि त्वं किन्ते मनसि वर्तते। कथयस्व महाभाग ! तत सर्वं कथयामि ते।।७।।
नारद उवाच –
मर्त्यलोके जनाः सर्वे नानाक्लेश- समन्विताः। नानायोनिसमुत्पन्नाः पच्यन्ते पापकर्मभिः ।।८।।
तत्कथं शमयेन्नाथ! लघूपायेन तद्वद।श्रोतुमिच्छामि तत्सर्वं कृपास्ति यदि ते मयि ।।९।।
श्रीभगवानुवाच-
साधु पृष्टं त्वया वत्स! लोकाऽनुग्रहकाम्यया। यत्कृत्वा मुच्यते मोहात्तच्छृणुष्व वदामि ते।।१०।।
व्रतमस्ति महापुण्यं स्वर्गे भुवि च दुर्लभम् । तव स्नेहान्मया विप्र! प्रकाशी क्रियतेऽधुना।।११।।
सत्यनारायणस्येदं व्रतं सम्यग् विधानतः। कृत्वा सद्यः सुखं भुक्त्वा परत्र मोक्षमालभेत् ।।१२।।
तच्छ्रुत्वा भगवद्वाक्यं नारदः पुनरब्रवीत।
नारद उवाच-
किं फलं किं विधानं च कृतं केन व्रतोत्तमम् ।।१३।।
तत् स विस्तराद् ब्रूहि कदा कार्यं हि तद् व्रतम् ।।१४।।
श्रीभगवानुवाच-
दुःख शोकादिशमनं धनधान्यप्रवर्धनम् । सौभाग्य सन्ततिकरं सर्वत्र विजयप्रदम् ।।१५।।
यस्मिन में कस्मिनु दिने मर्यो भक्तिश्रद्धासमन्वितः। सत्यनारायणं देवं यजेत्तुष्टो निशामुखे।
ब्राह्मणैर्बान्धवैश्चैव सहितो धर्मतत्परः ।।१६।।
नैवेद्यं भक्तितो दद्यात् सपादं भक्ष्यमुत्तमम् । रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम् ।।१७।।
अभावे शालिचूर्णं वा शर्करा च गुड़न्तथा। सपादं सर्वभक्ष्याणि एकीकृत्य निवेदयेत् ।।१८।।
विप्राय दक्षिणां दद्यात् कथां श्रुत्वा जनैः सह। ततश्च बन्धुभिः सार्धं विप्रेभ्यः प्रतिपादयन् ।।१९।।
प्रसादं भक्षयेद्भक्त्या नृत्यगीतादिकञ्चरेत् । ततस्तु स्वगृहं गच्छेत् सत्यनारायणं स्मरन् ।।२०।।
एवं कृते मनुष्याणां वाञ्छा सिद्धिर्भवेदू । ध्रुवम् । विशेषतः कलियुगे नान्योपायोऽस्ति भूतले।
कथां सम्यक् प्रवक्ष्यामि कृतं येन पुरा द्विज! ।।२१।।
कश्चितू काशीपुरीवासी विप्र आसीच्च निर्धनः । क्षुधा-तृष्णाऽऽकुलो भूत्वा सततं भ्रमते महीम् ।।२२।।
दुःखितं ब्राह्मणं दृष्टवा भगवान् ब्राह्मणप्रियः। वृद्धब्राह्मणरूपः सन् पप्रच्छ द्विजमादरात् ।।२३।।
किमर्थं भ्रमसे विप्र! महीं कृत्स्नां सुदुःखितः। तत्सर्वं श्रोतुमिच्छामि कथ्यतां यदि रोचते।।२४।।
विप्र उवाच- ब्राह्मणोऽति- दरिद्रोऽहं भिक्षार्थं | भ्रमते महीम्। उपायं यदि जानासि कृपया कथय प्रभो! ।।२५।।
वृद्ध ब्राह्मण उवाच-
सत्यनारायणो विष्णुर्वाञ्छितार्थ- फलप्रदः। तस्य त्वं द्विजशार्दूल! कुरुष्व व्रतमुत्तमम् ।
यत्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ।।२६।।
विधानश्च व्रतस्याऽस्य विप्रायाऽभाष्य | सङ्गतम्। सत्यनारायणो देवस्तत्रैवान्तर- धीयत।।२७।।
ततः प्रातः करिष्यामि व्रतं मनसि चिन्तितम्। इति | संचिन्त्य विप्रोऽसौ रात्रौ निद्रां न चालभत् ।।२८।।
ततः प्रातः समुत्थाय सत्यनारायणव्रतम्। करिष्येऽहञ्च संकल्प्य भिक्षार्थमगमद् द्विजः।।२९।।
तस्मिन्नेवदिने विप्र प्रचूरं द्रव्यमाप्तवान्। तेनैव बन्धुभिः सार्धं सत्यस्य व्रतमाचरत् ।।३०।।
सर्वदुःखविनिर्मुक्तः सर्वसम्पत्समन्वितः। बभूव स द्विजश्रेष्ठो व्रतस्याऽस्य प्रभावतः।
ततः प्रभृतिकालञ्च मासि मासि व्रतं कृतम् ।।३१।।
सूत उवाच-
एवं नारायणाद्देवाद् व्रतं ज्ञात्वा द्विजोत्तमः। सर्वपापविनिर्मुक्तो दुर्लभं मोक्षमाप्नुयात् ।।३२।।
व्रतं चैतद् यदा विप्र! पृथिव्यां सञ्चरिष्यति। तदैव सर्वदुःखं हि नराणाञ्च विनश्यति।
एवं नारायणेनोक्तं नारदाय महात्मने ।।३३।।
इति श्री सत्यनारायण व्रत कथायां द्वितीयोऽध्यायः